श्री हनुमान अष्टोत्तर शतनाम स्तोत्रम्

 
(श्रीपद्मोत्तरखण्डतः)नारद उवाच ।
 
सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत ।
 
यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥ १॥
 
स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज ।
 
इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥ २॥
 
वायोरंशावतरणमाहात्म्यं सर्वकामदम् ।
 
वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥ ३॥
 
इति पृष्टो नारदेन ब्रह्मा लोकपितामहः ।
 
नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥ ४॥
 
प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने ।
 
यच्छ्रुत्वा सर्वसौभाग्यं प्राप्नुवन्ति जनाः सदा ॥ ५॥
 
ब्रह्मोवाच । इदं रहस्यं पापघ्नं वायोरष्टोत्तरं शतम् ।
 
विष्णुना लोकनाथेन रमायै कथितं पुरा ॥ ६॥
 
रमा मामाह यद्दिव्यं तत्ते वक्ष्यामि नारद
 
इदं पवित्रं पापघ्नं श्रद्धया हृदि धारय ॥ ७॥
 
हनुमानञ्जनापुत्रो वायुसूनुर्महाबलः ।
 
रामदूतो हरिश्रेष्ठः सूरी केसरीनन्दनः ॥
 
सूर्यश्रेष्ठो महाकायो वज्री वज्रप्रहारवान् ।
 
महासत्त्वो महारूपो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ९॥
 
मुख्यप्राणो महाभीमः पूर्णप्रज्ञो महागुरुः ।
 
ब्रह्मचारी वृक्षधरः पुण्यः श्रीरामकिङ्करः ॥ १०॥
 
सीताशोकविनाशी च सिंहिकाप्राणनाशकः ।
 
मैनाकगर्वभङ्गश्च छायाग्रहनिवारकः ॥ ११॥
 
लङ्कामोक्षप्रदो देवः सीतामार्गणतत्परः ।
 
रामाङ्गुलिप्रदाता च सीताहर्षविवर्धनः ॥ १२॥
 
महारूपधरो दिव्यो ह्यशोकवननाशकः ।
 
मन्त्रिपुत्रहरो वीरः पञ्चसेनाग्रमर्दनः ॥ १३॥
 
दशकण्ठसुतघ्नश्च ब्रह्मास्त्रवशगोऽव्ययः ।
 
दशास्यसल्लापपरो लङ्कापुरविदाहकः ॥ १४॥
 
तीर्णाब्धिः कपिराजश्च कपियूथप्ररञ्जकः ।
 
चूडामणिप्रदाता च श्रीवश्यः प्रियदर्शकः ॥ १५॥
 
कौपीनकुण्डलधरः कनकाङ्गदभूषणः ।
 
सर्वशास्त्रसुसम्पन्नः सर्वज्ञो ज्ञानदोत्तमः ॥ १६॥
 
मुख्यप्राणो महावेगः शब्दशास्त्रविशारदः ।
 
बुद्धिमान् सर्वलोकेशः सुरेशो लोकरञ्जकः ॥ १७॥
 
लोकनाथो महादर्पः सर्वभूतभयापहः ।
 
रामवाहनरूपश्च सञ्जीवाचलभेदकः ॥ १८॥
 
कपीनां प्राणदाता च लक्ष्मणप्राणरक्षकः ।
 
रामपादसमीपस्थो लोहितास्यो महाहनुः ॥ १९॥
 
रामसन्देशकर्ता च भरतानन्दवर्धनः ।
 
रामाभिषेकलोलश्च रामकार्यधुरन्धरः ॥ २०॥
 
कुन्तीगर्भसमुत्पन्नो भीमो भीमपराक्रमः ।
 
लाक्षागृहाद्विनिर्मुक्तो हिडिम्बासुरमर्दनः ॥ २१॥
 
धर्मानुजः पाण्डुपुत्रो धनञ्जयसहायवान् ।
 
बकासुरवधोद्युक्तस्तद्ग्रामपरिरक्षकः ॥ २२॥
 
भिक्षाहाररतो नित्यं कुलालगृहमध्यगः ।
 
पाञ्चाल्युद्वाहसञ्जातसम्मोदो बहुकान्तिमान् ॥ २३॥
 
विराटनगरे गूढचरः कीचकमर्दनः ।
 
दुर्योधननिहन्ता च जरासन्धविमर्दनः ॥ २४॥
 
सौगन्धिकापहर्ता च द्रौपदीप्राणवल्लभः ।
 
पूर्णबोधो व्यासशिष्यो यतिरूपो महामतिः ॥ २५॥
 
दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डकः ।
 
बौद्धागमविभेत्ता च साङ्ख्यशास्त्रस्य दूषकः ॥ २६॥
 
द्वैतशास्त्रप्रणेता च वेदव्यासमतानुगः ।
 
पूर्णानन्दः पूर्णसत्वः पूर्णवैराग्यसागरः ॥ २७॥
 
इति श्रुत्वा नारदस्तु वायोश्चरितमद्भुतम् ।
 
मुदा परमया युक्तः स्तोतुं समुपचक्रमे ॥ २८॥
 
रामावतारजाताय हनुमद्रूपिणे नमः ।
 
वासुदेवस्य भक्ताय भीमसेनाय ते नमः ॥ २९॥
 
वेदव्यासमतोद्धारकर्त्रे पूर्णसुखाय च ।
 
दुर्वादिध्वान्तचन्द्राय पूर्णबोधाय ते नमः ॥ ३०॥
 
गुरुराजाय धन्याय कञ्जनेत्राय ते नमः ।
 
दिव्यरूपाय शान्ताय नमस्ते यतिरूपिणे ॥ ३१॥
 
स्वान्तस्थवासुदेवाय सच्चित्ताय नमो नमः ।
 
अज्ञानतिमिरार्काय व्यासशिष्याय ते नमः ॥ ३२॥
 
अथाभिवन्द्य पितरं ब्रह्माणं नारदो मुनिः ।
 
परिक्रम्य विनिर्यातो वासुदेवं हरिं स्मरन् ॥ ३३॥
 
अष्टोत्तरशतं दिव्यं वायुसूनोर्महात्मनः ।
 
यः पठेच्छ्रद्धया नित्यं सर्वबन्धात् प्रमुच्यते ॥ ३४॥

 

सर्वरोगविनिर्मुक्तः सर्वपापैर्न लिप्यते ।
 
राजवश्यं भवेन्नित्यं स्तोत्रस्यास्य प्रभावतः ॥ ३५॥
 
भूतग्रहनिवृत्तिश्च प्रजावृद्धिश्च जायते ।
 
आयुरारोग्यमैश्वर्यं बलं कीर्तिं लभेत् पुमान् ॥ ३६॥
 
यः पठेद्वायुचरितं भक्त्या परमया युतः ।
 
सर्वज्ञानसमायुक्तः स याति परमं पदम् ॥ ३६॥


hanuman ashtottara shatanamavali sanskrit हनुमान अष्टोत्तर शतनाम स्तोत्रम्
हनुमान अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment