श्री हनुमदष्टकम्
वैशाखमास कृष्णायां दशमी मन्दवासरे।
पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥
गुरुगौरवपूर्णाय फलापूपप्रियाय च।
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते॥२॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते॥३॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च।
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते॥५॥
पम्पातीरविहाराय सौमित्रीप्राणदायिने।
सृष्टिकारणभूताय मङ्गलं श्री हनूमते॥६॥
रंभावनविहाराय सुपद्मातटवासिने।
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते॥७।।
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत॥८॥