उज्ज्वल वेंकट नाथ स्तोत्र || Ujjwala Venkata Natha Stotram

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥
 
रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे,
 
शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।
 
 
निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां,
 
चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥
 
 
 
तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ,
 
श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।
 
 
धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो,
 
बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥
 
 
ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं,
 
श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।
 
 
द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गशृङ्गाधिरूढं,
 
दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥
 
 
अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः,
 
सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।
 
 
रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं,
 
धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥
 
 
अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।
 
जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥
 
 
ज्वलितनानानागशृङ्गगमणिगणोदितसुपरभागक,
 
घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम ।
 
 
सुजनतातातायिताखिलहितसुशीतलगुणगणालय,
 
विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ॥ ६॥
 
 
सकलपापापारभीकरघनरवाकरसुदर सादरम्,
 
अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर ।
 
 
तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्,
 
इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ७॥
 
 
नगधराराराधने तव वृषगिरीश्वर य इह सादर-,
 
रचितनानानामकौसुमतरुलसन्निजवनविभागज- ।
 
 
सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः,
 
अतिरयायायासदायकभवभयानकशठरिपोः किल ॥ ८॥
 
 
निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष,
 
जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः ।
 
 
इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे,
 
इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ९॥
 
 
गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर,
 
विदधते ते ते पदार्चनमितरथा गतिविरहिता इति ।
 
 
मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-,
 
चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ॥१०॥
 
 
विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-,
 
नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च ।
 
 
तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-,
 
शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥११॥
 
 
ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर,
 
करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर ।
 
 
सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु,
 
मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ॥१२॥
 
 
मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम,
 
मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश ।
 
 
परम याया या दया तव निरवधिं मयि झटिति तामयि,
 
सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥१३॥
 
 
घटितपापापारदुर्भटपटलदुर्घटनिधनकारण,
 
रणधरारारात्पलायननिजनिदर्शितबहुबलायन ।
 
 
दरवरारारावनाशन मधुविनाशन मम मनोधन,
 
रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ॥१४॥
 
 
सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि,
 
सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि ।
 
 
प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि,
 
तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥१५॥
 
 
उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः ।
 
श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥१६॥
 
 
॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥
 
 Ujjwala Venkata Natha Stotram

 Ujjwala Venkata Natha Stotram

 

Leave a Reply