श्री हयग्रीव पञ्चकम्

प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं,
सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च ।
 
अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं,
रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥
वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं,
सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादाम्बुजम् ।
 
कामाद्याकरचक्रशङ्खसुवरोद्वामाभयोधात्करे
 
सामादीड्यवराहरूपममलं हे मानसे संस्मर ॥ २॥
 
कोलाय लसदाकल्पजालाय वनमालिने ।
नीलाय निजभक्तौघपालाय हरये नमः ॥ ३॥
 
धात्रीं शुभगुणपात्रीमादायाशेषविबुधमोदाय ।
शेषे तमिमदोषे धातुं हातुं च शङ्किनं शङ्के ॥ ४॥
नमोऽस्तु हरये युक्तिगिरये निर्जितारये ।
समस्तगुरवे कल्पतरवे परवेदिनाम् ॥ ५॥
 
इति हयग्रीवपञ्चकं सम्पूर्णम् ।

Leave a comment