शिव पञ्चकम्

ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।
 
ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-
 
र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥
 
ॐ पश्चिमवक्त्राय नमः ॥ १॥
 
ॐ गौरं कुङ्कुमपिङ्गलं सुतिलकं व्यापाण्डुगण्डस्थलं
 
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
 
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
 
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥
 
ॐ उत्तरवक्त्राय नमः ॥ २॥
 
ॐ कालाभ्रभ्रमराञ्जनाचलनिभं व्यादीप्तपिङ्गेक्षणं
 
खण्डेन्दुद्युतिमिश्रितोग्रदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ।
 
सर्वप्रोतकपालशुक्तिसकलं व्याकीर्णसच्छेखरं
 
वन्दे दक्षिणमीश्वरस्य जटिलं भ्रूभङ्गरौद्रं मुखम् ॥
 
ॐ दक्षिणवक्त्राय नमः ॥ ३॥
 
ॐ संवर्त्ताग्नितडित्प्रतप्तकनकप्रस्पर्धितेजोमयं
 
गम्भीरस्मितनिःसृतोग्रदशनं प्रोद्भासिताम्राधरम् ।
 
बालेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं
 
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥

 

ॐ पूर्ववक्त्राय नमः ॥ ४॥
 
ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतत्त्वाधिकं
 
तस्मादुत्तरतत्त्वमक्षयमिति ध्येयं सदा योगिभिः ।
 
वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं
 
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥
 
ॐ ऊर्ध्ववक्त्राय नमः ॥ ५॥
शिव पञ्चकम्
शिव पञ्चकम्

Leave a comment