श्री वराह पञ्चकम्

प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं,सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च।
 
अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं,
 
रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥
 
वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं,
 
सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्।
 
कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं,
 
सामादीड्य-वराहरूपममलं हे मानसेमं स्मर॥२॥
 
कोलाय लसदाकल्प-जालाय वनमालिने।
 
नीलाय निजभक्तौघ-पालाय हरये नमः॥३॥

 

धात्रीं शुभगुणपात्रीमादाय अशेषविबुध-मोदय।
 
शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥
 
नमोऽस्तु हरये युक्ति गिरये निर्जितारये।
 
समस्त-गुरवे कल्पतरवे परवेदिनाम्॥५॥
 
॥इति श्रीवादिराजयति-कृतं वराहपञ्चकं संपूर्णम्॥
 
श्री वराह पञ्चकम्
श्री वराह पञ्चकम्

Leave a comment