श्री भुवनेश्वरी पञ्चकम्

॥ श्रीभुवनेश्वरी पञ्चकं अथवा प्रातःस्मरणम् ॥प्रातः स्मरामि भुवना-सुविशालभालं,
 
माणिक्य-मोउलि-लसितं सुसुधांशु-खण्दम् ।
 
मन्दस्मितं सुमधुरं करुणाकटाक्षं,
 
ताम्बूलपूरितमुखं श्रुति-कुन्दले च ॥ १॥
 
प्रातः स्मरामि भुवना-गलशोभि मालां,
 
वक्षःश्रियं ललिततुङ्ग-पयोधरालीम् ।
 
संवित् घटञ्च दधतीं कमलं कराभ्यां,
 
कञ्जासनां भगवतीं भुवनेश्वरीं ताम् ॥ २॥
 
प्रातः स्मरामि भुवना-पदपारिजातं,
 
रत्नोउघनिर्मित-घटे घटितास्पदञ्च ।
 
योगञ्च भोगममितं निजसेवकेभ्यो,
 
वाञ्चाऽधिकं किलददानमनन्तपारम् ॥ ३॥
 
प्रातः स्तुवे भुवनपालनकेलिलोलां,
 
ब्रह्मेन्द्रदेवगण-वन्दित-पादपीठम् ।
 
बालार्कबिम्बसम-शोणित-शोभिताङ्गीं,
 
विन्द्वात्मिकां कलितकामकलाविलासाम् ॥ ४॥
 
प्रातर्भजामि भुवने तव नाम रूपं,
 
भक्तार्तिनाशनपरं परमामृतञ्च ।
 
ह्रीङ्कारमन्त्र-मननी जननी भवानी,
 
भद्रा विभा भयहरी भुवनेश्वरीति ॥ ५॥
 
यः श्लोकपञ्चकमिदं स्मरति प्रभाते,
 
भूतिप्रदं भयहरं भुवनाम्बिकायाः ।
 
तस्मै ददाति भुवना सुतरां प्रसन्ना,
 
सिद्धं मनोः स्वपदपद्म-समाश्रयञ्च ॥
 
इति श्रीदत्तात्रेयानन्दनाथ-विरचितं श्रीभुवनेश्वरी-पञ्चकम् एवम् श्रीभुवनेश्वरी प्रातःस्मरणम् सम्पूर्णम् ।


Leave a comment