नृसिंह अष्टोत्तर शतनामावली
- ॐ नरसिंहाय नमः ।
- ॐ नराय नमः ।
- ॐ नारस्रष्ट्रे नमः ।
- ॐ नारायणाय नमः ।
- ॐ नवाय नमः ।
- ॐ नवेतराय नमः ।
- ॐ नरपतये नमः ।
- ॐ नरात्मने नमः ।
- ॐ नरचोदनाय नमः ।
- ॐ नखभिन्नस्वर्णशय्याय नमः ।
- ॐ नखदंष्ट्राविभीषणाय नमः ।
- ॐ नादभीतदिशानागाय नमः ।
- ॐ नन्तव्याय नमः ।
- ॐ नखरायुधाय नमः ।
- ॐ नादनिर्भिन्नपाद्माण्डाय नमः ।
- ॐ नयनाग्निहुतासुराय नमः ।
- ॐ नटत्केसरसञ्जातवातविक्षिप्तवारिदाय नमः ।
- ॐ नलिनीशसहस्राभाय नमः ।
- ॐ नतब्रह्मादिदेवताय नमः ।
- ॐ नभोविश्वम्भराभ्यन्तर्व्यापिदुर्वीक्ष्यविग्रहाय नमः ।
- ॐ निश्श्वासवातसंरम्भ घूर्णमानपयोनिधये नमः ।
- ॐ निर्द्रयाङ्घ्रियुगन्यासदलितक्ष्माहिमस्तकाय नमः ।
- ॐ निजसंरम्भसन्त्रप्तब्रह्मरुद्रादिदेवताय नमः ।
- ॐ निर्दम्भभक्तिमद्रक्षोडिम्भनीतशमोदयाय नमः ।
- ॐ नाकपालादिविनुताय नमः ।
- ॐ नाकिलोककृतप्रियाय नमः ।
- ॐ नाकिशत्रूदरान्त्रादिमालाभूषितकन्धराय नमः ।
- ॐ नाकेशासिकृतत्रासदंष्ट्राभाधूततामसाय नमः ।
- ॐ नाकमर्त्यातलापूर्णनादनिश्शेषितद्विपाय नमः ।
- ॐ नामविद्राविताशेषभूतरक्षःपिशाचकाय नमः ।
- ॐ नामनिश्श्रेणिकारूढ निजलोकनिजप्रजाय नमः ।
- ॐ नालीकनाभाय नमः ।
- ॐ नागारिमध्याय नमः ।
- ॐ नागाधिराड्भुजाय नमः ।
- ॐ नगेन्द्रधीराय नमः ।
- ॐ नेत्रान्तस्ख्सलदग्निकणच्छटाय नमः ।
- ॐ नारीदुरापदाय नमः ।
- ॐ नानालोकभीकरविग्रहाय नमः ।
- ॐ निस्तारितात्मीय सन्धाय नमः ।
- ॐ निजैकज्ञेय वैभवाय नमः ।
- ॐ निर्व्याजभक्तप्रह्लाद परिपालन तत्पराय नमः ।
- ॐ निर्वाणदायिने नमः ।
- ॐ निर्व्याजभक्तैकप्राप्यतत्पदाय नमः ।
- ॐ निर्ह्रादमयनिर्घातदलितासुरराड्बलाय नमः ।
- ॐ निजप्रतापमार्ताण्डखद्योतीकृतभास्कराय नमः ।
- ॐ निरीक्षणक्षतज्योतिर्ग्रहतारोडुमण्डलाय नमः ।
- ॐ निष्प्रपञ्चबृहद्भानुज्वालारुणनिरीक्षणाय नमः ।
- ॐ नखाग्रलग्नारिवक्ष्ससृतरक्तारुणाम्बराय नमः ।
- ॐ निश्शेषरौद्रनीरन्ध्राय नमः ।
- ॐ नक्षत्राच्छादितक्षमाय नमः ।
- ॐ निर्णिद्र रक्तोत्पलाय नमः ।
- ॐ निरमित्राय नमः ।
- ॐ निराहवाय नमः ।
- ॐ निराकुलीकृतसुराय नमः ।
- ॐ निर्णिमेयाय नमः ।
- ॐ निरीश्वराय नमः ।
- ॐ निरुद्धदशदिग्भागाय नमः ।
- ॐ निरस्ताखिलकल्मषाय नमः ।
- ॐ निगमाद्रि गुहामध्यनिर्णिद्राद्भुत केसरिणे नमः ।
- ॐ निजानन्दाब्धिनिर्मग्नाय नमः ।
- ॐ निराकाशाय नमः ।
- ॐ निरामयाय नमः ।
- ॐ निरहङ्कारविबुधचित्तकानन गोचराय नमः ।
- ॐ नित्याय नमः ।
- ॐ निष्कारणाय नमः ।
- ॐ नेत्रे नमः ।
- ॐ निरवद्यगुणोदधये नमः ।
- ॐ निदानाय नमः ।
- ॐ निस्तमश्शक्तये नमः ।
- ॐ नित्यतृप्ताय नमः ।
- ॐ निराश्रयाय नमः ।
- ॐ निष्प्रपञ्चाय नमः ।
- ॐ निरालोकाय नमः ।
- ॐ निखिलप्रतिभासकाय नमः ।
- ॐ निरूढज्ञानिसचिवाय नमः ।
- ॐ निजावनकृताकृतये नमः ।
- ॐ निखिलायुधनिर्घातभुजानीकशताद्भुताय नमः ।
- ॐ निशितासिज्ज्वलज्जिह्वाय नमः ।
- ॐ निबद्धभृकुटीमुखाय नमः ।
- ॐ नगेन्द्रकन्दरव्यात्त वक्त्राय नमः ।
- ॐ नम्रेतरश्रुतये नमः ।
- ॐ निशाकरकराङ्कूर गौरसारतनूरुहाय नमः ।
- ॐ नाथहीनजनत्राणाय नमः ।
- ॐ नारदादिसमीडिताय नमः ।
- ॐ नारान्तराय नमः ।
- ॐ नारचित्तये नमः ।
- ॐ नाराज्ञेयाय नमः ।
- ॐ नरोत्तमाय नमः ।
- ॐ नरात्मने नमः ।
- ॐ नरलोकांशाय नमः ।
- ॐ नरनारायणाय नमः ।
- ॐ नभसे नमः ।
- ॐ नतलोकपरित्राणनिष्णाताय नमः ।
- ॐ नयकोविदाय नमः ।
- ॐ निगमागमशाखाग्र प्रवालचरणाम्बुजाय नमः ।
- ॐ नित्यसिद्धाय नमः ।
- ॐ नित्यजयिने नमः ।
- ॐ नित्यपूज्याय नमः ।
- ॐ निजप्रभाय नमः ।
- ॐ निष्कृष्टवेदतात्पर्यभूमये नमः ।
- ॐ निर्णीततत्त्वकाय नमः ।
- ॐ नित्यानपायिलक्ष्मीकाय नमः ।
- ॐ निश्श्रेयसमयाकृतये नमः ।
- ॐ निगमश्रीमहामालाय नमः ।
- ॐ निर्दग्धत्रिपुरप्रियाय नमः ।
- ॐ निर्मुक्तशेषाहियशसे नमः ।
- ॐ निर्द्वन्दाय नमः ।
- ॐ निष्कलाय नमः ।
- ॐ नरिणे नमः ।